________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा न चेतनद्रव्यं यथा ज्ञेयः घटः पटः । नास्तिता चेतनस्यात इति मिथ्याऽस्ति ते वचः ।। ३४८॥ आत्मा चेन्नास्ति तद्वयर्थाः स्यु स्तपोजपसंयमाः। पुण्यपापे मृषा मत्वा मुह्यन्ति मूढमानवाः ॥३४९॥ जीवस्येमां महाशंकां च्छिन्धि हे देव सद्गुरो !! ॥ मतिहीनोऽस्मि जीवोऽहं कुमतिं ध्वंशयाशु मे ॥ ३५० ।।
गुरुरुवाच त्यक्त्वोच्छृखलवृत्ति त्वं युक्तिदीपं गृहाण च । जानीहि चेतनाऽस्तित्वं मुक्तेव शुक्तिकान्तरे ॥ ३५१ ॥ भिन्नोऽस्ति पंचभूतेभ्यः शुद्धोऽरूपश्च निर्मलः । देहव्याप्योऽस्ति जीवोऽयं व्यापि दुग्धं यथा जले ॥३५२ ॥ अहं सुखी तथा दुःखी नैषाधीर्वपुपो मता । मृतदेहे कदाचिन्न किश्चिन्चेष्टाऽपि दृश्यते ॥३५३ ॥ पंचभूतगुणा दृष्टाः काठीन्यशीततादयः। चैतन्यादि ने तत्राऽस्ति सूक्ष्मत्वेनाऽवलोक्यते ॥ ३५४ ।। अरूपी चेतनोऽयं तु चतुर्ग्राह्यः कदापि न । स्पर्शन पुद्गलस्कन्धा दृश्यन्ते तु सदा धृताः ॥६५५ ॥ श्वासोच्छ्वासस्तु भो शिष्य ! सदा स्पर्शेन गृह्यते । गच्छंश्च बहिरागच्छन् स कथं चेतनो भवेत् ॥३५६ ॥ पुद्गलो न कदाचित्स्याजीवोऽयं ज्ञातृताश्रयः। न चेद् घटादिके द्रव्ये ज्ञातृशक्तिश्च गृह्यते ॥३५७ ॥ संयोगः पंचभूतानां मद्यांगे मदशक्तिवत् ।। उत्पादयति चैतन्यं युक्तिः सा निष्फलैव हि ॥३५८ ।। भिन्ने भिन्ने च मद्यांगे मदशक्तिस्तु भासते । भूते भूते च नो तद्वज् ज्ञानवासोऽनुभूयते ॥४५६ ।।
For Private And Personal Use Only