________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मभेदविनाशेन स्वात्मा जिनो भवेत्स्वयम् । पूर्णव्यक्तिमयः स्वाऽऽत्मा को राजा कोऽस्ति किंकरमा२८८॥ तुल्यता सर्वसिद्धानां सिद्धस्थाने च मान्ति ते । पीड्यते कोऽपि नो कैश्चिदरूपपदशक्तितः ॥ २८६ ॥ विषमज्वरवेगेन भोजनस्यारुचि भवेत् । अभव्यादिकजीवानां मोक्षरुचि न जायते ॥२६० ॥ सम्यज्ञानप्रभावेण बहिरात्मपदात्ययः । वासः शिवपुरस्य स्या-दन्तरात्मगुणोदयात् ॥ २६१ ॥ समूल तत्र छिद्यन्ते परप्रवृत्तिहेतवः । अन्तः परप्रभुत्वं तु समभावेन जायते ॥२६२॥ परभावस्य कर्ताऽहं भवमूलमियं मतिः । अन्तरात्मपदो योगै निर्दोषो जायते स्वयम् ॥ २६३ ॥ स्वमाश्च कोटिवर्षाणां क्षीयन्ते जागृतिक्षणे । तथाऽऽत्मज्ञानमात्रेण क्षणादात्मा प्रभु भवेत् ॥ २६४ ॥ देहे चेतनबुद्धि र्या देहाध्यासं विजानत । देहाध्यासविनाशेन कर्मदोषोऽपि नश्यति ॥२६५ ॥ कर्मणां नैव कर्ताऽहं तेषां भोक्ताऽपि नास्म्यहम् । शुद्धदशाप्रकाशे तु भवभीति विनश्यति ॥ २६६ ॥ मोक्षश्चेतनधर्मेण मोक्षरूप स्त्वमस्यहो । रत्नत्रय्याश्च भोगी त्वं भूपः क्षायिकशर्मणाम् ॥ २६७ ॥ जायन्ते वीषयोऽम्भोधौ विनाशं यान्ति तत्र हि । चेतनस्य तथा ज्ञानं ज्ञेयत्वात्परिवर्तते ॥२६८ ॥ शुद्धोऽथ निर्मलो बुद्धः स्वयंज्योति गुंणालयः । चेतनोऽयं चिदानन्दः परानन्तगुणाकरः ॥२६६ ॥
For Private And Personal Use Only