________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वपूर्वजन्मनोऽभ्यासैः सिद्धाऽस्ति जीवनित्यता । वाल्ययौवनवार्धक्ये ज्ञाता त्वेको हि वर्तते ॥२७६ ॥ क्षणे क्षणे शरीरैक्ये स्वात्माऽयं परिवर्तते ।। पापं पुण्यं भवेत्कस्य तद्विवेकं तथा कुरु ॥ २७७ ॥ क्षणिकद्रव्यविज्ञानै स्तं वादं चणिक सर। वक्ता न क्षणिको जातो नित्यत्वेन तमानय ॥ २७८ ॥ कस्यचिद्वस्तुनः क्वाऽपि विनाशो नास्ति सर्वथा । आत्मनाशप्रवादेन स्वान्यावस्था तदा भवेत् ॥२७६ ॥ अन्यावस्था न कस्यापि तस्मानित्योऽस्ति चेतनः । प्रत्यभिज्ञाऽनुमानेन खात्मा नित्योऽस्ति जानत ॥ २८० ॥ पर्यायाः परिवर्तन्ते ह्यात्मनोऽपि प्रतिक्षणम् । तस्मादनित्य श्रात्माऽय मनेकान्तनये खलु ॥२८१ ॥ शुभाशुभास्रवं धृत्वा नानादेहान् बिभर्त्ययम् । भुनक्त्यसातसाते च व्यवहारनयेन च सूर्याच्छादकमेघानां नाशात्सूर्यः प्रकाशते । तथाऽऽस्रवविनाशेन स्वात्मा ज्ञानेन भासते ॥२८३ ॥ कर्मसंगापसारेण याति जीवः शिवं पुरम् । पुरुषोत्तम प्रात्माऽयं भवेत्सिद्धो निरञ्जनः ॥२४॥ अगम्यात्मस्वभावस्य शुद्धाऽऽलम्बनकारकः । संवरी चास्रवत्यागी तर्ताऽस्ति भवसागरम् ॥२८५ ॥ योगिनोऽपि यमिच्छन्ति धामानन्यमुखस्य यः। नौमि नौमि तमात्मान मनन्तगुणसंश्रयम् ॥२८६ ॥ शुभात्मनोऽवलम्बन दोषाः नश्यन्ति भूरिशः । जायतेऽनुभवज्योतिः पुष्णात्याऽऽत्मा स्ववीर्यतः॥२८७॥
For Private And Personal Use Only