________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
मम नास्ति मनो वाणी बडे कार्ये हि ते ननु । नाभ्यां सह निवासेन मम लज्जा न रक्ष्यते ॥ २६४ ॥ रमे हसामि कैः सार्द्ध ममत्वं केषु वा दधे । मृगनीरोपमा द्रव्ये ममतायाः स्थितिः कुतः ॥२६५ ॥ जडवस्तुहि मे नास्ति लिप्तः स्याँ किश्च संसृतौ । किमर्थ हेतुना केन मयां जन्म गृहीतवान् ॥२६६ ॥ पतितो व्यर्थपाशेषु शर्म किश्चिन्न वेद्यते । सत्यमार्गप्रवासेन किंचित्ते जायते भयम् ॥२६७ ।। शरीरमसि न त्वं तु शरीरं मृद्विकारवत् । पतत्यश्वत्थपत्रामं तस्माचेतन ! जागृहि ॥२६८ ॥ सर्व ज्ञानेन पश्यामि दूरं मत्तोऽखिलं पुनः । प्रतिवन्धो न कस्याऽपि शूरोऽहं सिंहसनिमः ॥२६६ ॥ रागो द्वेष स्तथा निन्दा व्यनश्यत्तदलं बहु । आत्मा स्वाभिमुखो भूत्वाऽनुभवं स्वं तनोति च ।। २७० ॥ शत्रुणा नैव च्छिद्येऽहं भिद्येऽहं नैव शस्त्रतः। शत्रौ मित्रे समो भावः कथं वा स्यान्मम भ्रमः ॥ २७१ ॥ सर्वे कर्मवशा जीवा भ्राम्यन्ति निश्चितं भवे । पुत्रमित्रवधूभावैः सम्बन्धः सर्वदेहिषु ॥२७२ ॥ सम्बन्धो न कचित्सत्यः संसारः स्वार्थतत्परः । कस्यचित्कोऽपि नो भूमौ संवेगं हृदि धारय ॥२७३ ॥ सिद्धवनिखिला जीवा निर्मला निश्चलाः सदा। करणत्रययोगेन ते सेव्याः शुद्धभावतः ॥ २७४ ।। द्रव्यार्थिकनयै नित्य-स्तस्य नाशः कदापि न । असंख्यातप्रदेशेन ध्रुवः स स्वस्वरूपवान् ॥ २७५ ॥
For Private And Personal Use Only