________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानिनामात्मविज्ञाने मतमेकं प्रवर्तते । शिवपुर्या भवाधीशो योगत्रयस्य रोधनात् ॥३०० ॥ रोगादिघोरशत्रूणां यत्र गन्धो न वर्तते ।
आत्मलक्ष्येदृशे जाते कर्मबन्धो न जायते ॥३०१ ॥ ध्यानेन देहनिष्ठोऽपि देहातीतः प्रवर्तते । बहुवारं त्रियोगेन वन्देऽहं तं महामुनिम् ॥ ३०२ ॥ पौद्गलं सौख्यमुच्छिष्ट जगत्स्वनेन सन्निभम् । शुद्धं किन्त्वात्मनो ज्ञान मन्यज्ज्ञानं च वाचिकम् ॥ ३०३ ।। यस्य ज्ञाने प्रजाते तु दशा शान्ता प्रकाशते । धर्मो यत्र ततो विद्धि निश्चयेन सुखप्रदम् ॥३०४ ।। नैगमः संग्रहश्चाथ व्यवहारस्तृतीयकः । ऋजुसूत्रं चतुर्थोऽस्ति नयःशब्दोऽस्ति पंचमः ॥ ३०५॥ षष्ठःसमभिरूढास्य एवंभूत श्च सप्तमः । सत्यः सप्तनयै धर्म,-रूप एवं प्रकाशते पूर्ण सप्तनयैरेवं वस्तुरूपं विलोक्यते । नयैकान्तहठेन स्या,-मिथ्यात्वी मानवः पुनः ॥ ३०७ । सप्तनयावबोधेन सम्यगनुभवो भवेत् ।।
आत्मतत्त्वपरीक्षात-स्तीर्यते हि भवाम्बुधिः ॥३०८ ॥ ऋजुसूत्रनयाभासात्प्रजातं बौद्धदर्शनम् । नयमेकान्तमाधत्ते नात्मशुद्धिं करोति सः । ३०६ ॥ जीवादिनवतत्त्वेषु युज्यन्ते सप्त ते नयाः । सद्गुरोः सेवनादेव नयज्ञानं प्रजायते ॥३१० ॥ स्यादस्ति भंगमूचेह-मनेकान्तमताश्रयम् । सर्ववस्तुषु चाऽस्तित्व मेवं ज्ञानी वदत्यथ ॥३११ ॥
For Private And Personal Use Only