________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनस्यन्यत्तथा बाह्ये ततोऽन्यद्यस्य वर्तते । न समः कथने वृत्तौ स चतुष्पथतस्करः ॥ ४८ ॥ उद्घाटयति यः सम्यग् ज्ञात्वां धर्मस्य पेटिकाम् । सेवस्व सत्यचित्तेन महाकारुणिकं गुरुम् ॥ ४६ ॥ वने वने न मातंगा देवो नास्ति युगे युगे । प्रतिमुण्डं गुरुत्वं न ज्ञात्वा सेवस्व सद्गुरुम् ॥ ५० ॥ विषय भैच्यभोगी न, ब्रह्मचारी गुणालयः । छलवृत्तिपरित्यागी यस्तं वन्दे महागुरुम् ॥ ५१ ॥ धर्मरत्नं मुदा यस्माल्लब्धं कारुणिकाद्गुरोः । सदैव शरणं तस्य व्यर्थं नान्यच्च चिन्तय ॥ ५२ ॥ गुरवो वन्दिता भ्रान्त्वा शतधा चाहतं शिरः । यत्र तत्र नतं मुन किंचित्सारं न लब्धवान् ॥ ५३ ॥ भ्रान्त्वाऽनेकभवाने - वमपारं दुखमाप्तवान् । सद्गुरुर्निःश्रमं लब्ध, स्तन्मां तारय तारय ।। ५४ ॥ विनेयश्च महान् भक्तः, श्रद्धायां यन्मनः स्थिरम् । साहसी शिवधामार्थी गम्भीरो निजचेतसि ।। ५५ ।। वैराग्येषु मनोलनं वारिता विषयस्पृहा । धैर्य मेरुसमं यस्य वशे कायो वचः मनः ॥ ५६ ॥ स्वीकृत्य समतां चित्ते येनेर्ष्या च विनाशिता | कुर्वतः सद्गुरो भक्तिं लभन्ते शिवसम्पदम् ॥ ५७ ॥ गच्छन् गुरुनिदेशेन नाज्ञालोपं करोति यः । शिक्षयन्तं गुरुं स्वीयं कदापि नहि कुप्यति ॥ ५८ ॥ गुरुसेवारतश्चापि प्रकाशयति तद्गुणान् । नेक्षते गुरु वैगुण्यं गुरुभक्तः स निश्चितः ॥ ५६ ॥
For Private And Personal Use Only