SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निन्देदवगुणं स्वीयं प्रणमन्विधिना गुरुम् । क्षणे क्षणे गुरुं पश्यन्नानन्दं हृदि धारयेत् ॥ ६० ॥ विनेयाधिकृतिः प्रोक्ताऽनुभवपंचविंशतौ । तद्रीत्या ये चलिष्यन्ति, तरिष्यन्ति भवाम्बुधिम् ।। ६१ ॥ रमणीयां स्त्रियं दृष्ट्वा प्रेमिचित्ते यथा रतिः । शिष्याणां च तथा रागः सद्गुरूणां ततोऽधिकः ॥ ६२ ॥ यस्य चित्ते नहि ज्ञानं गुरोः सम्यक्त्वदायिनः। परोपकारिणीं बुद्धिं,-विना भ्राम्यति सोऽबुधः ॥ ६३ ।। दीक्षागुरौ तथा भेदो गुरौ सम्यक्त्वदायके । रविखद्योतवद्भेदः सुशिष्या हृदि जानत ॥ ६४ ॥ दृश्यो धर्मगुरु यः स दीक्षादायी महामुनिः। वेत्स्यन्ति ज्ञानिनोऽवश्यं संशयं न मनाक् कुरु ॥६५॥ गुरुमेवं हि सेवस्व भव सद्गुणधाम च । लभन्ते गुणिनः शिष्या स्वविश्रामं शिवे पुरे ॥ ६६ ॥ सूर्योदयाः सहस्रं स्युः द्योततां शतधा शशी। दीपकाश्चेत्सहस्रं स्युः किश्चिन्नान्धो निरीक्षते ॥ ६७ ॥ प्राप्येत सद्गुरु ानी यदि चोपदिशेदति । मूढास्तत्र हि जानन्ति-एवं क्लेशविधायकाः ॥ ६८॥ जडो भूत्वा जडत्वेन गुरौ कुगुरुबुद्धिमान् । खरपुच्छग्रही वाऽसौ स्वात्मशुद्धिं करोति न ॥ ६६ ॥ विश्वासी सद्गुरो नैव विश्वासः कुगुरो स्तथा। अज्ञानी पशुरात्माऽयं सर्वदुःखस्य धामः सः ॥ ७० ॥ तर्कशक्तिः परा यस्य गम्भीरवचनश्च यः। चित्ते यस्सास्ति मोक्षाशा धीरो यो धर्मकर्मणि ॥ ७१ ॥ For Private And Personal Use Only
SR No.008502
Book TitleAdhyatma Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages206
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati, Spiritual, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy