________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वच्छन्दचारितां त्यक्त्वा अाभिसेवस्व सद्गुरुम् । गुर्वाधीनंमनःकृत्वा लभस्व शाश्वतं पदम् ॥ ३६ ॥ नहि मूलमृते वृक्षो न ज्ञानं गुरुमन्तरा । वाचय ग्रन्थपत्राणि किन्त्वज्ञानं न नश्यति ॥ ३७॥ मानेन पठन ज्ञानं लोकरंजनहेतवे । विनाऽऽत्मलक्ष्यिकथ्यानं मुक्तिराज्यं न लम्यते ।। ३८ । कृत्वा छलैः क्रियाकाण्डं करोति लोकरंजनम् । तच्छुष्कं ज्ञानमप्येकं निरर्थं वित्त भो जनाः ॥३६॥ लामेऽलाभे सुखे दुःखे समता शत्रुमित्रयोः ।
औदासीन्यं स्वचित्तेषु नौरास्ति स भवाम्बुधः ॥ ४० ॥ निन्दका अतिनिन्दन्तु पूजकाः पूजयन्तु च । वक्ष्यन्त्याटोपिनं धूर्ताः सर्वान्पश्य च साम्यतः ॥ ४१ ॥ अन्तःसृष्टि गुणानां च निःसमाऽऽत्मनि वर्तते । वितण्डां वादिनां श्रुत्वा मौनिनः सम्भवन्ति ते ॥ ४२ ॥ धर्माणामुपदेशस्तु यत्राऽस्ति नटसानिमः । अन्तर्दृष्टि ने यत्रास्ति मिथ्यावेषोऽस्ति तस्य तु ॥ ४३ ॥ दुर्गम्ये कलिकालेऽस्मिन्दृश्यते विरलो गुरुः । अन्ये तु सर्ववल्मीकात्सर्पराशिरिव स्मृताः ॥ ४४ ॥ द्वेषं गच्छममत्वं च धृत्वा चित्ते कदाग्रहम् । मतमतान्तरे प्राप्तः दुर्गतिप्रमदासुहृत् ॥४५॥ गतागतेऽब्धिपूराणां व्यग्रा मत्स्या भवन्ति हि । प्राणनाशस्तटागत्या न्यायो गच्छस्य चेदृशः ॥ ४६ ।। शरीरे न ममत्वं चेत्-तद्देहात्कि च बंधनम् । व्यवहारेण गच्छस्थः स्वान्तर्गुणगणालयः ।। ४७ ।
For Private And Personal Use Only