________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३९.
Acharya Shri Kailassagarsuri Gyanmandir
श्रायुष्कर्मोदयेनैव विहरेत्स महीतले ।
सर्वकर्म विनाशेन लभ्यं शिवपुरं पुनः ॥ २३३ ॥ न जन्ममरणे यत्र न शोकविरहौ यतः । चुत्पिपासे न यत्रस्त श्चिन्ता रोगो नवा यतः ॥ २३४ ॥ पंचदेहाच्च यो भिन्नो यानायानविवर्जितः । रूपारूपस्वरूपी च यत्र तृष्णा नवा मनः ॥ २३५ ॥ यत्राष्टवर्गणा नैव लिङ्गं वेदो न जातयः । छेदो खेदो नवा यत्र प्राणा: पञ्चेन्द्रियाणि च ॥ २३६ ॥ श्रतिदूरं यतः स्थानात्सातासाते च जग्मतुः सहजानन्दरूपे तु सुखं पूर्ण प्रवर्त्तते ॥ २३७ ॥ परमेशः सदानन्दः परात्मा पुरुषोत्तमः । दुःखातीतस्वरूपो हि नहि शब्दादयः पुनः रागद्वेषौ न यत्र स्त आत्मज्योतिश्च निर्मलम् । शुद्धो भूखा स्वसत्ताभि महोद्योतं चकार सः ॥ २३६ ॥ लोकत्रये दिनाधीशो यश्च स्वान्यप्रकाशकः । वाचामगोचरो धर्म, - रूपः क्षायिकवान्प्रभुः ॥ २४० ॥ चेतने शुद्धरूपे हि अस्ति भेदद्वयं ततः । श्रस्तिनास्तिमयाः सन्ति अनन्ता धर्मराशयः ॥ २४९ ॥ नित्यानित्यस्वभावो य आत्मरूपमयोऽचलः । भव्या भव्यस्वभावात्मा शुद्धोऽनन्तप्रभाववान् ॥ २४२॥
॥२३८॥
For Private And Personal Use Only