________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अखण्डश्चाव्ययश्चाजो निःसंगश्च निराकृतिः। यद्गुणा नित्यपर्याया अगुरुलघुमान्स्वयम् ॥२४३॥ अक्षरोऽविचलो धर्ममयो वाण्या अगोचरः। केवली यन्न शक्नोति वक्तुं ज्ञातुमपि स्वयम् ॥२४४॥ निवृत्तिमत्समस्त्येत दुःखं किञ्चिन्न वा यतः। सनातनं शिवं लब्ध्वा अपारं लभतां सुखम् ॥२४५॥ तिरोभावगुणानां च आविर्भावो यदा भवेत् । तदा त्वं परमात्माऽसि तत्त्वमस्यादिबोधितः॥ २४६ ॥ अहं त्वं भेदभावो न स्वात्मद्रव्यं तु निर्मलम् । अनन्तगुणतोऽनेक एकोऽसंख्यप्रदेशतः ॥२४७॥ मुक्तौ जीवा अनन्तास्तु भवन्ति सदृशा गुणैः । व्यक्तिरूपेण भिन्नास्ते कैश्चित्कोऽपि न पीड्यते ॥२४८॥ साद्यनन्तस्थितिस्तत्र मुक्तिस्थानं च निर्मलम्। नास्ति स्वस्वामिभावोऽपि सत्तावन्तः समास्तथा २४६ शुद्धरूपमगाधं यत्तल्लेशानुभवं हृदि। प्राप्यैतत्पदमाख्यातं देशो यस्यास्ति चोत्तमः॥२५०॥ त्रयोदशगुणस्थानं लब्ध्वा स्वात्मा प्रकाशते। अनन्तगुणसर्वज्ञो न विनाशी स वर्तते ॥२५१॥ जिनेश्वरर्षभो देवः शोभते माणसापुरे। पार्श्वप्रभोः सहायेन ग्रन्थ एवं मया कृतः ॥२५२॥
For Private And Personal Use Only