________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धारयन्सद्गुरोराज्ञां वैयावृत्येऽनुरागवान् । क्षुद्रा वृत्ति न यस्याऽस्तिस्वान्तर्ज्ञानं करोति च ॥२२३॥ न स्वसंकल्पमोक्तारः गुरुभक्ता दयाप्रियाः । तथा शिष्यास्तु संसारे भवन्ति मोक्षगामिनः॥२२४॥ श्रात्मनो योग्यतां यान्ति सजनाः शिष्यसाधवः । अंन्तरात्मानमाज्ञाय भवन्ति जगदीश्वराः ॥ २२५ ॥ जगन्नाथो निजात्माऽस्ति संसारे तीर्थ मुत्तमम्। विना सत्तीर्थविज्ञानं सारं न कोऽपि शोधयेत् ॥२२६॥ येन सर्वे हि शोध्यन्ते वर्त्तसे स त्व मात्मराट् । अनन्तद्धिनिधिस्वामी स्वपदं स्वेन गीयते ॥२२७॥ यत्पारगमनं तीर्वा प्रतीपसरणी नदीम् । परमात्मपदप्राप्ति स्तस्मादपि सुदुष्करा ॥ २२८ ।। अधिशोषं करिष्याम उद्यतन्ते च टिट्टिभाः। ध्रुवं स्याद्धदि सन्तोष: साहसेन तथाऽऽस्मनि ॥२२६॥ धर्मध्यानावलम्बन शुद्धभावः प्रवर्तते । शुक्लध्यानान्शमाप्नोति स्वगुणानपि मानवः ॥ २३०॥ शुक्लध्यानं प्रकुर्वाण: कुर्वन्कर्मविनाशनम् । केवलज्ञानसद्भासा लोकालोक: प्रकाशते ॥ २३१ ।। चत्वारि घातिकर्माणि पृथक् कृत्वा स्वयं स्वतः । वेदनीयादिकर्माणि दग्धरज्जुवदासते ॥ २३२ ॥
For Private And Personal Use Only