________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यक्त्वा गुरूणां वचनामृतं च, विषस्य पानं विदधे शरीरी ॥ १३४ ॥
आविर्भावतिरोभावौ सत्ताव्यक्ताविमौ मतौ। स्वकीयद्धितिरोभावस्तस्य हेतुः प्रमादता ॥१३॥ परान्स्वकीयानवबुध्य सोऽहं, परप्रदेशे भ्रमणं चकार ॥ संमोहमायासु विभूय मत्तः, क्लेशाननेकान्विविधाँश्च लेभे अहर्निशं रागगतो बभूव, यतस्ततोऽहं भ्रमणं चकार ॥ रागस्य रोषस्य च योगहेतोः, कर्म गृहित्वा तु लभेऽतिदुःखम् ॥१३७ ॥ यथाऽस्ति बुद्धो भगवान्परात्मा, सिद्धादयश्चाऽपि यथा भवन्ति ॥ प्रात्माऽहमप्यस्मि तथैव नास्मिन्नुत्कृष्टनिष्कृष्टविधे ने भेदः ॥१३८ ॥ यथा निजस्वप्नदशासु चित्तं, चांचल्य मेवालभते न शान्तिम् ॥ स्वस्वप्नसृष्टिं बहु भाषते च, तज्जायते दूरतरं प्रयाति ॥ १३६ ॥
For Private And Personal Use Only