________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४१ ॥
तथैव चायं ननु बाह्य श्रात्मा, दशामनेकां विविधां च वेत्ति ॥ यदाऽन्तरात्मा भवति स्वबोधातदा न कश्चिद्वृदि तस्य खेदः यो ज्ञानवानस्ति निजान्तरात्मा, स्वपीति सोऽयं परभावमध्ये ॥ तथा स जागर्ति निजस्वरूपे, स्वभाव एषः खलु चेतनस्य चतुर्थं च गुणस्थान - मारभ्याऽयं स्वचेतनः ॥ द्वादशस्थानपर्यन्त-मन्तरात्मैव कथ्यते ॥ १४२ ॥ अन्तरात्मिक योगेन सम्यक्त्वी कथ्यते जनः । अन्तर्वृत्तिस्तु चैतेषां भिन्नत्वेन परीक्ष्यते ॥ १४३ ॥ सो विषाभो विषयस्य येषां रंगो न येषां परपुद्गलानाम् ॥ वैराग्यमेवास्ति मनस्तु येषां, मज्जन्ति धन्याः समताद्युनद्याम् साम्यं सुवर्णोपलयोश्च येषां, येषां समौ निन्दकन्दकौ च ॥ निजान्तरात्मासुमतां जनानामभ्यास एवं खलु वर्तनीयः
For Private And Personal Use Only
॥ १४० ॥
॥ १४४ ॥
॥ १४५ ॥