________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञातं च येनान्तर मात्मतत्त्वं, तज्ज्ञानिनां लक्षणमस्ति वित्त ॥१२६ ॥ लेश्याख्ययोगोऽपि नचाऽऽत्मतत्त्वं, न वर्गणाश्चाऽपि तदात्मतत्त्वम् । ज्ञातं च येनान्तर मात्मतत्त्व, मिदं च तस्यैव विभाति रूपम् ॥१३०॥ निजस्वरूपस्य विधायकोऽस्ति, स निश्चलः शून्यकल श्चिदात्मा। सच्छाश्वती तस्य अनन्तशक्तिदेदात्यसौ स्वीयगुणस्य दानम् ॥१३१॥ स निर्मलो निश्चल श्राश्रयश्च, स सर्ववेत्ता न जडेन वेद्यः। किञ्चिद्विकारोऽपि यतोऽस्ति नैव, निष्कृष्टसूक्ष्मादपि सोऽतिसूक्ष्मः ॥१३२ ॥ अनादिकालोद्भवयोगतश्च, पीनोऽस्ति मिथ्यापरिणामतोऽयम् ॥ संगृह्य कर्मात्मकपुद्गलाँश्च, जिनोऽपि जातस्त्वतिदीनदीनः ॥ १३३ ॥ संगेाषित्वा जडपुद्गलानां, स व्यस्मरत्स्वीयगुणस्य भानम् ॥
For Private And Personal Use Only