________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरोरधीनं कुरुताऽऽत्मचित्तं, स्वगेहभानं च ततो लभध्वम् ॥ १२४॥ श्रद्धा गुरो यस्य चकास्ति चित्ते, वा यस्य चित्ते गुरुभक्तिरस्ति । तस्यानुसारेण जगत्सु कश्चिद्, भवी मनुष्यो लभते च तत्त्वम् ॥ १२५ ।। प्राणाधिकः प्राणसमाधिको वा, पुत्राधिको यस्य गुरौ च रागः। वाचा गुरोः सद्गुणधर्म माप्य, सौभाग्यभोगं लभते मनुष्यः ॥१२६ ॥ चेतस्य संख्यात्मप्रदेशरूपं, तदात्मतत्त्वं प्रविचारयध्वम् । आत्मा हि साक्षात्परमात्मदेवः, स एव शुद्धो भगवाँश्च बुद्धः ॥१२७ ॥ पादाच्छिरो व्याप्य च दर्शनार्थी, यो वर्तते पुद्गलरूपिदेहः। खड्गो यथा वर्तत श्रात्मकोशे, तथा निजात्मा वसति स्वदेहे ॥१२८॥ न चेन्द्रियाणां निचयो निजात्मा, श्रात्मा यतो वाड्मनादिभिन्नः।
For Private And Personal Use Only