________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भेदावबोधस्य विधाय युक्तिं, गृह्णाति तत्त्वं विरलो मनुष्यः ॥११६ ॥ श्रीसूर्यनारायणतेजसा तु, विनाशमेतिस्वयमन्धकारः। अन्तस्तमः किन्तु न सूर्यभाला, कदापि दूराय गतिं करोति ॥१२०॥ परं महासद्गुरुसंगमेन, अन्तस्तमो नाश मुपैति शीघ्रम् । श्रीसद्गुरुजंगमकल्पवृक्षो, भवन्तु तत्सद्गुरुदेवदासाः ॥ १२१ ॥ निजाऽऽत्मनोऽसावुपकारको यत्सत्यं ततः सद्गुरुधर्मदेवः। सेवध्वमेनं करणत्रयेण, यतो दुरभ्यास उदेतु नैव ॥ १२२ ॥ मिथ्या कुतर्क किमुवा कुरुध्वं, शीघ्रं मृषावाद मुदेजयध्वम् । गुरोरधीनं कुरुताऽऽत्मचित्तं, शुद्धं च हार्द सततं लभध्वम् ॥ १२३ ॥ मायासु भूत्वा प्रथमं हि मना, श्चित्ते स्वकीये किमु धत्त मानम् ।
For Private And Personal Use Only