________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यग् गुरोर्भूतकृपाकटाक्षर्वदाम्यहं निश्चित मात्मतत्त्वम् । चेत्सत्ययुक्त्या हृदि धारयेत, तदा हि भव्यत्व मुदेति चित्ते ॥१६॥ एकान्तपक्ष हृदये निधाय, अनित्य पात्मेति विचारयेत, विज्ञा अनेकान्तविचारणेन, दक्षप्रमाणं सबलं दधन्ति ॥११० ॥ नित्योऽयमात्मा बुधसार्वभौमै, द्रव्यार्थिक नीतिदलेऽस्ति वाच्यः । तथाऽयमात्मा कथितोऽस्त्यनित्यः शास्त्रोक्तपर्यायनयेन विज्ञैः ॥१११॥ ललन्तिकाकडूणमुर्मिकेति, सुवर्णपर्याय इदन्तु सर्वम् । भिन्नत्वतस्तत्परिवर्ततेऽथो, स्वर्णत्वमस्त्येव तथाऽपि तत्र ॥११२॥ अनेकपात्राणि च पार्थिवानि, न तत्र पृथ्वी परिवर्तते च । ज्ञानं परं तत्परिवर्तते हि, तथा निजात्मा परिवर्तते न ॥११३ ॥
For Private And Personal Use Only