________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्मा यदा स्यात्क्षणिक स्तदा स्या, द्बद्धश्च का कैः कृतकर्मभिस्सः । कुर्वीत कश्चिच्च कृतस्य भोगं, भुजीत कोऽपीति महत्यनीतिः ॥१०३ ॥ क्षणे क्षणे चास्य विचारराशि, रुत्पद्यते चाशु विनाशमेति । नित्यो निजात्मेतिविचारणेन, कथं तदुत्पादविनाशभावः ॥१०५॥ भूते भविष्ये सपदि त्रिकाले, य एकरूपः स हि नित्य आत्मा। न यत्स्वरूपं परिवृत्ति मेति, नित्यं तदेवाऽस्ति जगत्सु वस्तु ॥१०६ ॥ चेन्नित्य आत्मा भवतीति तरिक, विचारराशिः परिवृत्तिमेति । विचारराशिः परिवर्तते चेस नित्य पात्मा कथमस्ति तर्हि ॥ १०७॥ यतोऽस्त्यनित्यस्तत एव चात्मा, क्षणे क्षणेऽसौ परिवृत्तिमेति । प्रवर्तते चात्मविचारराशिायः स एषः क्षणिकाभिधानाम् ॥ १०८॥
For Private And Personal Use Only