________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हे सेवका एव वेत्य चित्ते
सदा कुरुध्वं जगदीशभक्तिम् ॥१८॥ सम्यज्ज्ञानं विना केचि-प्रवदन्ति मुधा वचः । सम्यग्दृष्टिर्भवेद्येषां, तेषां सम्यगविवेचनम् ॥६६॥
जीवेशभेदस्तु स माययैव, प्रत्यक्षयोग्यो भवतीति चेद्भोः। ज्ञानादयः सन्ति गुणा द्वये हि, कथं तदा स्यादनयोश्च भेदः . ॥१०० ॥ जीवेशभेदः खलु माययैव, विभावनीयश्च बुधै यथार्थः। जीवः परेषां परिणामवान्यस्तदन्य ईशः क इहाऽस्ति खेदः ॥ १०१॥ जडस्वरूपा त्वियमस्ति माया, वाच्या कथं सा ननु चेतनेति । जीवेशयोश्चेतनशक्तिरस्ति, तच्चेतनां तां हृदि वित्त विज्ञाः ॥१०२॥ अनित्य आत्मेतिविचारणेन, युक्तो विचारो नहि कश्चिदस्ति । जन्मान्तरे यत्स्मरणं जनानां, तदात्मनित्यत्वत एव विद्धि ॥१०३ ॥
For Private And Personal Use Only