________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यद्वा पुनर्जन्मनि सत्प्रमाणं, प्रमाणितं तत्प्रथमं मया तु ॥७७॥ मया पुनर्जन्मप्रमेयसिद्धिरात्माख्यग्रन्थे लिखिता विचार्य । ज्ञात्वा स्वयं ज्ञानिजनश्च सत्यं, प्रवर्तते मुक्तिपथानुयायी
॥७८॥ श्रद्धा दृढा चेत्प्रभवेजनानां, तदा तु सम्यक् सकलं विभाति । ये सन्ति वा दुर्भविनो मनुष्याः
श्रद्धा कदाचिद्धदये न तेषाम् ॥७६ ॥ भवन्ति सरला वक्रा मिष्टान्नं जायते विषम्सदा दुर्भविजीवाना मन्धकारोऽन्तरे हृदि ॥८॥ कोऽहं च मे कः किमिदं च दृश्यं, नैषां च भावः हृदयेऽपि कश्चिद् । या बाह्यदृष्टेननु वासनेयं, प्रवर्तते सा बहिरात्मधाम परेशकर्तृत्वमतानुगाना, बाह्याऽऽत्मनां स्यात्परमो विनोदः ।
आत्मा हि साक्षात्परमः पराऽऽत्मा, विनेति विज्ञानमयोऽन्धकारः ॥८२॥
For Private And Personal Use Only