________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपं न यस्मादिदमात्मनोऽस्ति, तस्मादरूपी कथितो मुनीन्द्रैः ॥७२ ॥ स्कन्धं च कर्मात्मकपुद्गलानां, संगृह्य संगृह्य स जन्म धत्ते । आत्मा त्वयं निश्चयतोऽस्त्यरूपी, रूपी पुनः संव्यवहारतोऽस्ति ॥ ७३ ॥ संजायते कर्मत एव चान्धो, मूकश्च कश्चिदधिरश्च कश्चिद् । यश श्च मानं च निजापकीर्तिः, सर्वन्त्विदं चेतन एव विन्ते ॥७४ ॥ उत्कृष्टनिष्कृष्टसमीरयोगाच्छुद्धोऽथ विक्षिप्तमतिश्च कश्चिद् । प्रलापिनस्त्वेव मुदीरयन्ति, सर्वन्विदं मे वितथं विभाति ॥७५ ॥ कर्मोदयेनाऽपि निमित्तयोगैः, संजायते च प्रथिलो मनुष्यः । श्रात्मा त्वयं विस्मरति स्वभावं, विक्षिप्तचित्तं तु जगद्ब्रवीति. ॥७६ ॥ स कर्मकर्ता सहि कर्मभोक्ता, यश्चेतन स्तं हृदि वित्त विज्ञाः ।
For Private And Personal Use Only