________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
पंचभूतस्य संयोगा-दात्मसंज्ञाऽस्ति चाऽऽत्मनः । पंचभूतवियोगेन, चेतनाऽपि विनश्यति ॥ ६७ ॥
चेत्पंचभूतान्यधिकानि किम्बा, ... न्यूनानि तेभ्यस्तु विचित्रसृष्टिः । अन्धश्च कश्चिद् बधिरश्च कश्चित्, कश्चित्तथा विक्लववाग् मनुष्यः ॥६८॥ उत्कृष्टनिष्कृष्टसमीरयोगाच्छुद्धोऽथ विक्षिप्तमति श्च कश्चिद् । पञ्चेन्द्रियाणामथ शक्तय श्च, ताः शक्तिभूतेतिपदेन वाच्याः ॥ ६ ॥ भोः पंचभूतानि मृते शरीरे, संयोगतश्चाऽपि भवन्ति तानि । न ज्ञातृता तत्र चकास्ति काचिजडत्वतः किन्तु विलोकितानि ॥ ७० ॥ तत्पंचभूतात्पृथगेतदात्म,द्रव्यं तदेतद्धृदि वित्त विज्ञाः । धूर्तेः कृतात्कोटिकुतर्कतोऽपि, सिद्धान्ततो नैव चलन्ति भव्याः ॥७१ ॥ श्रात्मा न यस्मादुदपद्यताऽसौ, तस्मादजोऽयं कथितो यतीन्द्रैः।
For Private And Personal Use Only