________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जहाति धत्ते वसनं तथापि, न जायतेऽन्यो मनुजः कदाचिद् । देहं च गृह्णाति जहाति वाऽऽत्मा, स एव चाऽऽत्मा न च कश्चिदन्यः ॥ ६२ ॥ समाधिना योगसहायभाजा, योगी पुनर्जन्म सुखेन वेत्ति । ज्ञानेन जानाति जगत्स सिद्धः, साक्षात्तथा स्वानुभवेन विद्वान् ॥६३॥ क्रोधः पुनर्जन्मजसंस्कृतेःस्यासिद्धस्तथा भीमभुजङ्गमेषु । एवं च तन्नास्तिकवादितर्क, देशादमुष्मात्तु बहिश्चकार ॥६४॥ तत्पंचभूतात्पृथगेष आत्मा, सचेतनो दृष्टिपथं न याति । वा पंचभूतात्मकयोगजन्या, सा चेतनाशक्ति रुदेति काऽपि ॥६५॥ यः पंचभूतात्मकयोग एषः, स एव मे चेतनशक्तिवेत्ता । क पंचनूतात्मकयोगमेतं-, विना भवेच्चेतनशक्तियोगः
For Private And Personal Use Only