________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नेदं पुनर्जन्म च सिद्धमस्ती,त्येवं जनाः केऽपि समुगिरन्ति । प्रवर्तते सत्यवचो न तेषां, विचार्य सत्यं हृदि सूचयामः ॥ ५७ ॥ अनादिकालाद्यदि सिद्ध आत्मा, तदा पुनर्जन्म कथं न सिद्धम् । विना पुनर्जन्मनि संस्कृति वा, कथं शिशोः स्तन्यगतिः प्रसिद्धा ॥ ५८ ॥ उत्पद्यते कोऽपि विहीनचक्षुरुत्पद्यते कोऽपि विहीनपादः । एतत्पुराजन्मकृतै श्च पापैः, संजायते न्यूनशरीरवत्त्वम् ॥ ५९ ॥ सुशोकिनः केऽपि जना भवन्ति, भवन्ति केचिबहुरोगिण श्च । तत्पूर्वजन्मार्जितपापजालैरनेकसन्तापमहो लभन्ते ॥६० ॥ उदेति जातिस्मरणं च यस्माद्, सिद्धा पुनर्जन्मकथा च तस्माद् । तस्मात्पुनर्जन्मविनाशनाशादनादिरात्मा स्वयमेव सिद्धः ॥ १॥
For Private And Personal Use Only