________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
Acharya Shri Kailassagarsuri Gyanmandir
उत्पद्यते राजगृहेऽपि कश्चित्, कश्चित्पुनर्भिक्षुक जीर्णकुट्याम् । दानोत्थपुण्यस्य विनोररीस्थान्, न्यायालये सन्तमसं तमश्च ॥ ५२ ॥
॥ ५३ ॥
व्रतेन दानेन तपोजपाभ्यां, पुण्यस्य बन्धो भवति स्फुटञ्च । तस्यानुसारं लभते च जन्म, सद्युक्ति मेतां हृदये कुरुष्व पाश्चात्यलोकैः सह सङ्गमेन, वैकल्यमाप्नोति सतां च बुद्धिः । तोक्तशास्त्रश्रवणं विना स्या, सदैव ते नास्तिकता मनस्सु ॥ ५४ ॥ करोति संगं न च सद्गुरूणां, सद्ग्रन्थपाठं न तथा करोति । सदा पुरस्कृत्य मतिं स्वकीयां, सदैव मूढः कुपथे प्रयाति
For Private And Personal Use Only
॥ ५५ ॥
न दीर्घदृष्टिः समुदेति येषां, तत्वावबोधोऽपि तथा न येषाम् । सुधारयन्ते किमिहाऽतिमूढा; निर्बुद्धयः कौशलशक्तिशून्याः ॥ ५६ ॥