________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगेऽयमात्मा च सतां गुरूणां, स्याद्वादरूपत्वमथ प्रयाति ॥ २९ ॥ अनन्तकालं भ्रमितो भवेषु, तत्त्वप्रतीतिर्न तथाऽऽविरासीत् । विनाऽऽत्मतत्त्वावगमं जगत्सु, नायाति नाशं भवभूतभीतिः ॥ २७ ॥ कर्तारमीशं ननु मन्यतेऽसौ, स्वकीयबुद्ध्या जनता जगत्सु । न तत्त्वमार्ग गणयन्ति मूढा,स्तेषां च विद्या सकला निरर्था ॥ २८ ॥ बाह्यात्मनां सम्प्रति वासना या, भवाम्बुधे मूलमियं हि दीर्घा । मोहासवस्वादनतस्तु नूनं, चक्रे महाभ्रान्तिमिमामसीमाम् ॥ २९ ॥ यदा यदोदेति विवेकदृष्टि,आतं भवत्येव तदा समग्रम् । भेदावबोधस्य च योजनेयं, न्यायो यथाऽत्रास्ति तु हंसचञ्चुः ॥ ३० ॥ त्वं पंचतत्वादतिभिन्न एव, चेतस्सु तच्चेतन विद्धि सत्यम् ।
For Private And Personal Use Only