________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ये नाम बाह्यात्मधियो मनुष्या:, कथं तरिष्यन्त्यथ ते भवाब्धिम् ॥ २१ ॥ दानेन किं स्यात्तपसा तथा किं, जापेन किं वा व्रतसाधनेन । धूतः कृता केवल कल्पनेयं, मुग्धा जनास्तत्र परिभ्रमन्ति ॥ २२ ॥ एतत्समाः सन्ति धियस्तु येषां, ते सन्ति वाह्यात्मधिय स्तु दीनाः । न धर्मगुह्यं च विदन्ति किञ्चिद्, यतस्तु ते सद्गुरुसंगहीनाः ॥ २३ ।। यः पंचतत्त्वात्मकपुद्गलोऽयं, देहः स आत्मेति विचारयन्ति ।। अस्माच्छरीरात्पृथगस्ति, नात्मेति नास्तिका हृद्यवधारयन्ति ॥ २४ ॥ सयुक्तिसूक्ष्मप्रतिभे विनाऽय, मात्मा न च ज्ञानसुगोचर: स्यात् । जडास्तु येऽनात्मविदो मनुष्या. स्ते भूरिशो भूरिभवे भ्रमन्ति ॥ २५ ॥ श्रीवीतरागस्य विभोर्वचोभ, ज्ञातं भवत्येव समग्रमेतत् ।
For Private And Personal Use Only