________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथाऽरणौ तिष्ठति वह्निदेव,स्तथा शरीरेष्वयमाऽऽत्मदेवः ॥ ३१ ॥ भूतेषु पंचस्वपि विज्ञलोकै,ईष्टो न च ज्ञानगुणः कदाचित् ।। न पंचभूतानि मृते शरीरे, चैतन्यशक्ति च समानयन्ति ॥ ३२ ॥ चेष्टा यतो दुःखसुखादिकानां, जानाति यो दुःखसुखेऽपि नित्यम् । जानाति यः शीतगुणं च तापं, तृषां तथा रोग मथो बुभुक्षाम् ॥ ३३ ॥ देहेषु तद्ध्यापकमाऽऽत्मतत्त्वं, विचार्यतां सम्प्रति बुद्धिमद्भिः।
आत्मा असंख्यातप्रदेशरूपो, नित्यस्तथा शाश्वतनिर्विकारः ॥ ३४ ॥ चिच्छक्तिरेषा प्रतिचेतनं तु, प्रवर्ततेऽनादित एव कालात् । जडस्वरूपं खलु पंचतत्त्वं, न कश्चिदायाति तदत्र बाधः ॥ ३५ ॥ परोभवः केन जनेन दृष्ट, इत्युत्तरन्त्वेवमिदं चकास्ति ।
For Private And Personal Use Only