________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां नराणां ननु बाह्यदृष्टिभवेषु भूयोऽपि वृथा भ्रमन्ति । ये यापयन्त्येव वृथा स्वजन्म, कथं तदर्थ क्रियतां च शोकः ॥ ११ ॥ भ्रमन्ति कायसंघेषु पृथ्व्यप्पवनतेजसाम् । सूक्ष्मबादरभेदाभ्या,मपारा जीवराशयः॥१२॥ वनस्पतीनां भवतो द्विभेदी, प्रत्येकसाधारणनामधेयौ। तत्रातिवारं प्ररिबभ्रमुस्ते, लब्ध्वा विचित्रान्विविधाँश्व खेदान् ॥ १३ ॥ प्रापुश्च बाह्यात्मपदं ततोऽपि, स्वात्मावबोधं न च तेऽवजग्मुः । शुद्धाश्च बुद्धा भगवन्त एते, भ्रान्ता बृहत्कर्मभिरेव नित्यम् ॥ १४ ॥ अनन्तकालं च ततोऽवतस्थी, दुःखं प्रतिश्वास महो यतोऽस्ति । योगेन भूयो भवितव्यताया, श्चक्रे तथा द्वीन्द्रिययोनिवासम् ॥१५॥ विचित्रदेहान्परिव रेते, तत्रापि योगेन च रूपनाम्नोः ।
For Private And Personal Use Only