________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२५) कर्मनाशो यदंशेन, स्वप्रकाशस्तदंशतः ॥ क्रियावदगुणवत्कर्म, स्वात्मा तु निष्क्रियो मतः ॥२२७॥ कर्मणाऽऽत्मजगन्द-, स्तदज्ञानात्तमश्चयः ॥ नान्यायो न्याय एवाऽयं,भोगे हि कृतकर्मणाम् ॥२२८॥ महान्हि कर्मसिद्धान्त, एतत्सर्वं प्रमाणय ॥ कर्माधीनाश्च शकाद्या, उच्चनीचादयस्ततः ॥२२९ ॥ कर्मपुद्रलपर्याय, स्तद्रोधारसुखमात्मनः ॥ प्रकाशन्ते गुणाः कर्मो-, पशमादिकभावतः ॥ २३०॥ कर्मात्मनोश्च विश्वास-, स्तदा सम्यक्त्वमीक्ष्यते ॥ असम्यगपि सम्यक् स्यात्, स्याञ्चित्तमात्मसम्मुखम् २३१
आत्मा कार्येषु निष्कामः, स्वपरिणाम आत्मनि ॥ कर्मणः स्यात्तदा श्रद्धा, समभावनिरीक्षणम् ॥२३२॥ न भवेद्वरिषु द्वेषः, कर्मतो देहसृष्टयः॥ वीक्ष्यते नात्मदोषस्तु, कर्मणां दोष ईक्ष्यते ॥२३३।। रागद्वेषशमस्तेन, भवत्यात्मक्षमा स्फुटा ॥ घश्यते नास्मदोषश्च, सन्तोष: साम्यतो भवेत् ॥२३॥ कर्मणां सर्वखेलोऽयं, यो जानाति न मुह्यति ॥ आत्माऽरूपी च तद्धर्म, स्तल्लयेम सुखं भवेत् ॥२३५॥ श्रात्मधर्मात्पृथक् पुण्यं, पृथक्पुण्यसुखं तथा ।। कर्मपौव क्रियाः सन्ति, कर्म नाऽकर्मभावतः ॥ २३६ ॥
For Private And Personal Use Only