________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३१) बन्धःस्याद्वेषरागाभ्यां, कर्माधीना हि देहिनः। द्विड रागौभावकर्माऽस्ति, द्रव्यं कर्म तथाष्टकम् ॥२१७॥ अनादिकालतः कर्म-, बन्धोऽस्ति सममात्मना । कर्मतो जन्ममृत्यादिः, पुण्यपापेऽपि कर्म हि ॥२१८।। पुण्यं पापं द्वयं कर्म, तद्भेदा बहुधा मताः। जीवो भ्रमति संसारे, सर्वयोनिषु कर्मणा ॥२१९॥ शुभं जन्माऽस्ति पुण्येनाऽशुभं जन्म च पापतः । पुण्यैःश्रेष्ठगतिः सौख्यं, पापतो दुःखदुर्गती ॥२२०॥ गतागतं स्त्रकर्मभ्यः कीर्तिनिन्दे च कर्मतः। शुभकर्मोदयाच्छा -,ऽशुभं चाशुभकर्मतः ॥२२॥ उदये यानि कर्माणि, न तद्भोगं विना गतिः । साम्येन भोगतः कर्म-बन्धो नात्मासुखी भवेत् ॥२२२॥ कर्मोदयश्च साम्येन, सूते भक्तिं च निर्जराम् । घात्यघाति तथा कर्म, घातिनाशात्प्रभु भव ॥२२३॥ ज्ञानेन हन्यते कर्म, स्वोपयोगै गुणोदयः। सोपयोगी त्वबन्धः स्या-, दन्धः कर्मोदयान्नसः ॥२२॥ शुभाऽशुभानि जन्मानि, तेषां कर्मैव कारणम् ॥ कर्मान्तान्मुच्यते स्वात्मा, ज्ञानी नविषयाश्रतः॥२२५॥ सर्वगर्वहरं कर्म, जीवा नृत्यन्ति कर्मतः॥ बलि च पुद्गलं कर्म, व्यक्तं कर्म शुभाशुभम् ॥२२६॥
For Private And Personal Use Only