________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२) दयालु र्यः स मे भक्तो, न रक्तो यश्च हिंसने ॥ दयां विना न धर्मःस्याद्, दयावृत्तिक्रियां कुरु ॥२०७॥ दयां विना न सत्यं स्याद्, सत्कृत्यं न दयां विना ॥ दया यत्र ततो धर्मः, सर्वे धर्मा दयास्थिताः ॥२०॥ कामभोगस्य दासो य-, स्तस्य तृष्णा न शाम्यति ॥ कामभोगोविषाभोऽस्ति, तदासक्ता मृतैः समाः॥२०८॥ कामभोगसुखस्याशा, येषां ते लोककिंकराः ॥ ते त्वाल्मबलतो दूरं, नात्मतेजश्च विन्दते ॥२१०॥ जय कामकरी वृत्ति, सत्यज्ञानं तथाऽऽप्स्यसि। धराऽऽत्मसुखविश्वास, मार्याणां जीवनं हि तत्॥२११॥ नहि कामसमं पापं, कामो दोषस्य कारणम् । कामो जितो जितं सर्व, व्यर्थगो हि तं विना ॥२१॥ कामवृत्तिं च मुश्चाऽऽशु, दुष्टकामं नवा स्मर ।। रक्षाऽऽत्मना समं चित्तं, जगन्नाथो भविष्यसि ॥२१३॥ मुक्तिधाम ततो यच्च, निष्काममार्यवर्तनम् । आर्याणां जीवनं धर्मो, न शर्माऽनार्यचेतसि ॥२१॥ अधार्मिकस्त्वनार्योऽस्ति, त्वार्या धर्मस्य वेदकाः। आर्य धर्मकरं विद्धि, वियनार्य च पापिनम् ॥२१५।। आर्या जैना हि विख्याता, तत्र भक्तिं समानय । मयि तेषु न भेदोऽस्ति, अभेदाश्चात्मसत्तया ॥२१६।।
For Private And Personal Use Only