________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१) मद्वचस्त्वखिलं सत्यं, कृत्यं धर्मजयस्य च ॥ प्राचारे कुरु मदाक्यं, राजन् धर्म न विस्मर ॥१६॥ न जैनधर्मनाशोऽस्ति, जैनोस्त्वनन्तकालिकः ॥ कदाग्रहस्य दूरीतिः, सत्यादिगुणतो जयः ॥१६॥ कदाग्रहेण शान्ति ने, मिथ्याभ्रान्ति हि वर्धते ॥ दूरं कदाग्रहाद्भत्वा, जैनधर्मोद्यतो भव ॥१६९ ॥ त्यजाल्पविषयक्लेश, दुष्टयंत्रं विनाशय ॥ अग्रमात्मदशा चेत्स्या-, सूक्ष्मतत्त्वं च भासते॥२०॥ ज्ञास्यसि सूक्ष्मतत्त्वं त्वं, चलात्मज्ञानतः पुरः ॥ म्रियतेऽनात्मबोधेन, न स श्रात्मा म्रियेत यः ॥२०१॥ अज्ञानिनस्तु रोदन्ति, मृत्यो बिभ्यति मोहिनः ॥ न धर्ममरणे भीति, आनिनां रीति रीदृशी ।२०२॥ धनादयो बहिर्द्रव्यं, तत्र स्वार्थ न मन्यते ॥ वेत्ति जीविकया स्वार्थ, परमार्थस्तु तद्धदि ॥ २०३ ॥ निधर्म जीवनं व्यर्थ, दुष्टवृत्तिं निवारय ॥ धर्मेणात्मबलोत्क्रान्ति, नद्धिरात्मद्धि मन्तरा ॥२०॥ सन्ध्या रागसमा सैषा, जद्धिस्तु विनश्यति॥ जद्धि विद्धि मिथ्या हि,स्वात्मझे मन पानय॥२०५॥ जडेषु नास्तिको वेत्ति, ऋद्धि मात्मनि चास्तिकः।। नास्तिको रक्षसातुल्यो,धर्मे जैनोऽस्ति चास्तिकः॥२०६
For Private And Personal Use Only