________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) आत्मनो गुणपर्यायौ, प्रकाशेते यतस्त्विमौ ॥ एवं विचार प्राचारो, जैनधर्मस्य कथ्यते ॥ १८७॥ प्रवृत्तिव्यवहाराश्च, विचाराः शक्तिकारकाः ॥ स जीवन्जैनधर्मोऽस्ति, शक्तः सत्यः सनातनः ॥१८८॥ सबलो जैनधर्मोऽस्ति, निमित्ता जडशक्तयः ॥ जयत्यात्मबलै जैनो, न दीनः पाशवे बले ॥ १८९ ॥ योऽवश्यं मम विश्वासी, तन्नाशो न कदाचन ॥ मासौ जगदधीनः स्या-, स्वातन्त्र्यं स्वं दधाति च ॥१६० आत्मास्तित्वप्रमाणेन, पुनर्जन्माऽपि जायते ॥ तद्विश्वासीस जैनोऽस्ति,स्वात्म शक्त्यान दैन्यवान् १९१ जैना ये मम भक्ताः स्युः, स्वात्मविश्वासधारिणः ॥ कायादिशक्तिसापेक्षा, निरपेक्षाः कदापिन ॥१२॥ आत्मशक्त्या जयोऽस्तीति, हृदि तेषां प्रतीयते ॥ विकाशयाऽऽत्मशक्तीस्त्वं, लभस्व पदमाईतम् ॥१६॥ स्वजनान्बोधयाऽऽत्मानं, नात्मरूपो भव स्वयम् ॥ गृहिधर्मक्रियाज्ञान, जैनधर्मोऽस्ति ते शुभः ॥१४॥ सत्याऽहिंसाक्रियां धेहि, धर्मश्च स्वाधिकारतः ॥ धर्मः साध्योऽधिकारेण, सेव्यो देवो गुरुर्मुदा ॥१९५॥ अभयं त्वात्मदानं हि, ज्ञानदानादिकं शुभम् ॥ निर्भयोऽभयदानेन, भव जीवाधिकारतः ॥ १९६ ॥
For Private And Personal Use Only