________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २५ ) तदेवं. कर्मसिद्धान्तः, निर्धमो भव जीवक ॥ त्वं त्यजाऽशुभकर्माणि, कषायानशुभांस्त्यज ॥२३७॥ सुकषायान् शुभं कार्य, सेवा भक्ताद्युपायकम् ॥ कृत्वाऽऽत्मनि विश प्रेम्णा, यत्प्रदेशाः सुनिर्मला॥२३८॥ सर्वसंगेषु निःसंगो, शुद्धमात्मानमाचर ॥ जायते केवलज्ञानं, स्वयं तेन प्रभुर्भव ॥ २३६ ॥ कर्मभावेन लीनः स्या, भिन्ने स्त श्रात्मकर्मणी ॥ कर्मण्यात्मतया तिष्ठ, निर्लेपार्थमिदं वचः ॥२४॥ कर्माधीनाश्च पर्याया-, स्तेषु नात्मत्वमानय। आत्मरूपे निलीयस्व, कृतकर्माऽपसारय ॥२४१॥ कर्म कर्मस्वभावेन, पश्यात्मानं स्वभावतः। अात्मनि सत्यधर्मोऽस्ति, पुद्गलेष्वस्ति पौद्गलः ॥२४॥ चलैवं निश्चयं कृत्वा, कुपथं कुमतं त्यज । प्रमीय जैनसिद्धान्तं, प्रवर्तस्व स्वबोधतः ॥२४३॥
आत्माऽस्ति सत्तया शुद्धः, प्रबुद्धः शुद्धनिश्चयात् । पर्यायः कर्मणाऽशुद्धो, विशुद्धः कर्मनाशतः ॥२४४॥ कर्मतो न भयं धेहि, ततोऽप्यात्मा महाबली। कर्मनाशं क्षणेनात्मा, करोति स्वोपयोगतः ॥२४५॥ अनन्तभवकर्माणि, क्षणे हत्वा सुखालयः। स्वात्मराजो बलीत्येवं, जाग्रतः स च निर्ममः ॥२४६॥
.
..
For Private And Personal Use Only