________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७ )
॥ १५८॥
जीवानाऽऽत्मसमान्पश्य, दुष्टवृत्तीश्च संत्यज ॥ सर्वसंगेषु निःसंग, आत्मरक्तो भव स्वयम् ॥ १५७॥ धामाऽसि सर्वशक्तीनां सर्वदेवाभिधास्तव ॥ देवरूपं भवद्रूपं, त्वदन्या दुःखयंत्रणा atra स्वात्मरूपे त्वं, भिन्नोऽसि नामरूपतः ॥ जैनधर्मः स्वधर्मोऽस्ति, सात्त्विकप्रकृतिं कुरु ॥ १५६ ॥ पोषय स्वाश्रिताल्लोका, - न्नासत्प्रीतिरुषौ कुरु, । वेदानामपि वेदोऽसौ, धर्माऽभेदं विलोकय ॥ १६०॥ पृथक् पृथक् चये धर्माः, सत्याः सापेक्षिकाश्च ते ॥ आत्मधर्मेऽखिला धर्मा, मान्ति गुह्यमिदं महत् ॥ १६९ ॥ आत्मज्ञानेऽखिलं ज्ञान, मात्मदानेऽतिसर्जनम् ॥ श्रात्मरूपाः सुराः सर्वे, ज्ञात्वाऽत्मानं हृदा भज ॥ १६२ ॥ श्रात्मशुद्धिं कुरु व्यक्तां शक्तः स्यादात्मशुद्धितः ॥ रमयात्मनि चेतस्त्वं, चिदानन्दं प्रकाशय ॥ १६३ ॥ जीवक !! त्वं तु जीवोऽसि, प्रकृतिर्जीववर्जिता ॥ प्रकृत्याश्रित श्रारोह, ब्रह्मरन्ध्रपुरं विश ॥ १६४ ॥ विना प्रकृतिसाहाय्यं, सिद्धः कोऽपि न जायते ॥ प्रकृतिस्तेऽनुकूला चे, -द्रच्छोत्कान्तिपथं मुदा ॥ १६५॥ चेतनस्त्वं चिदानन्द, स्त्वं ब्रह्म प्रकृति र्जडा ॥ स्वस्य त्वं कुरु विश्वासं, स्वाश्रयत्वमुपेत्य च ॥१६६॥
३
For Private And Personal Use Only