________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) गुरुकृपां विना ज्ञानं, जायते न कदाचन ॥ गुरुं विना न कोऽप्यस्ति, भगवानपरःखलु ॥१६७॥ गुरुं विना न लोकानां, ज्ञानं भवति वस्तुतः ॥ अज्ञानकुहरे नित्यं, भ्रमन्ति निपतन्ति च ॥१६८॥ गुरौ प्रेम्णा भवेद्भक्त, स्तया सर्वाश्च शक्तयः॥ प्रेम्णा भक्तो गुरोर्भूत्वा, नाशकः स्यात्प्रभुः स्वयम्॥१६६। आत्मनः सत्यविश्वासो, भक्तानां हृदि जायते ॥ स्यादात्मा स्वात्मरूपेण, क्षीयते कमणोऽष्टकम् ॥१७॥ आत्मा यदात्मरूपः स्यात्सिद्धो बुद्धस्तदोच्यते॥ माया च प्रकृतिदूरं, ज्ञानी ज्ञानं तदाऽश्नुते ॥१७१॥ आत्मज्ञानं नृपाऽऽदाय, राज्यं वह गुणालयम् ॥ तेनान्तःकामनाहीनो, वय॑सि लप्स्यसे सुखम्॥१७२। मयि पूर्णानुरागस्ते, निष्कामः सत्य एव सः॥ स्वतन्त्रो वय॑सि त्वं तत्, सत्यमंत्रं प्रचारय ॥१७॥ मयि न्यस्य मनो गच्छ, त्यज त्वं विषमां धियम् ।। समबुद्ध्या प्रवर्तस्व, प्रभुलाभाय तद्रहः ॥ १७४ ॥ ज्वालय वासनां दुष्टां, सर्वत्र समतां कुरु ॥ जहि दुष्ट विचाराँस्त्वं, स्वात्मशक्त्या रमस्व च॥१७॥ जैनः स यो यदंशेन, त्यजेद्विषयवासनाम् मयि यस्याऽस्ति विश्वासो, जैनो जिनत्वमश्नुते ॥१७॥
For Private And Personal Use Only