________________
गृहिणी गृहमुच्यते ।
किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः । शत्रौ मित्रे च समभावः समस्तलोकमार्द्र-दृष्ट्या प्रेक्षमाणो मितं प्रियं चाचक्षाणो मोक्षस्य मार्गे तिष्ठति ।
यथा दावाग्निना तरुगणा दह्यन्ते तथा विषयासक्त्या मानुषो विनश्यति, यथा विषं तथा विषयान्दूरेण प्रमुच्य समाधिलीनेन चित्तेनाध्वम् ।
तं तपस्तेजसा दुस्सहं गुरुजनं प्रणमेति वयं भवन्तमाचक्ष्महे । भो भो राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । अस्मिन्नशोक-वृक्षमूले तावदास्तामायुष्यमान् यावदमागच्छामि ।
पूर्वं भवनेषु क्षितिरक्षार्थं ये निवासमुशन्ति तेषां पश्चात्तरुमूलानि गृहाणि भवन्ति ।
भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे । धर्मार्थ रस - गृद्ध्या वा मांसं खादन्ति ये नराः । निध्नन्ति प्राणिनो वा ते पच्यन्ते नरकाग्निना ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहु मूढ- चेतसम् ॥ असौ मुनि र्महायोगी पुण्यराशिरिवाङ्गवान् । मया हतो 'हताशेन क्व यामि करवाणि किम् ॥ त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे ॥
પાઠ ૧૩ મો
१. धर्मः अर्थः (प्रयोजनम्) यस्मिन् (कर्मणि) तत्, तथा ।
ક્રિયાવિશેષણ.
२. हता आशा यस्य सः - हताश:, तेन ।
१४