________________
પાઠ ૧૧ મો भवन्त एव 'सुतरां लोकवृत्तान्त-निष्णाताः। 'सुतनु ! ते हृदयाद्वयलीकमपैतु। पुत्रमेवं-गुणोपेतं चक्रवर्तिनमाप्नुहि। हा पुत्र ! हा जात ! हा जातेति बुवाणो मूर्च्छया राजा भूमौ पतितः प्राणैश्च विमुक्तः। यः सञ्जातो मनस्ताप: स त्वाख्यातुं न पार्यते । कैकेयी भरतं नाम भरतभूषणं सुतमसूत । न शक्नुमो वयमार्यस्य मतिमतिशयितुम्। कृष्णेनाम्ब ! गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया, सत्यं कृष्ण ? क एवमाह ? मुशली, मिथ्याम्ब ! पश्याननम्। अहो विशालं भूपाल ! भुवन-त्रितयोदरम् । माति मातुमशक्योऽपि यशोराशि र्यदत्र ते ॥ आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम् । आदिमं तीर्थनार्थं च ऋषभस्वामिनं स्तुमः॥ यात्येकमेव चैतन्यं,जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वार्द्धके । एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर।। एवमाशाग्रह-ग्रस्तैः, क्रीडन्ति धनिनोऽर्थिभिः॥ किं करोमि, क्व गच्छामि, कमुपैमि दुरात्मना। दुर्भरणोदरेणाहं, प्राणैरपि विडम्बितः ॥ अद्यैष मत्सुतो बालो, निद्राणो रजनीमुखे।
सहसैव महाक्रूरैरदश्यत सरीसृपैः॥ ૧. તર અને તમ પ્રત્યય જયારે અવ્યય કે ક્રિયાપદની પછી આવે છે ત્યારે तराम् भने तमाम् थाय छे.सु (स.) +तर-सुतराम् । पचतितराम् । २. सु(सुष्ठु) तनूः यस्याः सा सुतनूः, तत्सम्बुद्धौ3. निर्गतः परिग्रहो (ममता) यस्मात् स निष्परिग्रहः, तम्।
૫૮