________________
પાઠ ૩૫ મો तस्मिंश्च सम्यगनिशं परिपुष्यमाणे
नानाफलं फलति कल्पलतेव भूमिः ॥ क्वाहं पशोरपि पशुर्वीतराग-स्तवः क्व च । उत्तितीपुररण्यानी पद्भ्यां पङ्गुरिवारम्यतः ।। सूरिरूचे भवदत्त ! तरुणः कोऽयमागतः । सोऽवदद्भगवन्दीक्षां जिघृक्षुर्मेऽनुजो ह्यसौ ॥ मृगा वायुमिवारूढा रथनिर्घोषभीरवः । प्रायः प्रयान्त्यमी व्योम्नि जिहासन्तो महीमिव । व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर ! । क्षेमेण कृत्वा तांशीघ्र-मागच्छेरस्मदाशिषा॥ मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः॥ चिखादिषति यो मांसं प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ असौ धनः सार्थवाहो वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति ते चलन्तु सहामुना ।। सर्वथा निजिगीषेण भीतभीतेन चागसः। त्वया जगत्त्रयं जिग्ये महतां काऽपि चातुरी ॥ क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम्। गति विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम्॥ न पिबामि तृषार्तोऽपि न च भुजे बुभुक्षितः । रात्रावपि न सुप्तोऽहं धनोपार्जन-लोलुपः ।। सपुत्रादि-परिवारो राजा दशरथोऽपि तम्। गत्वा ववन्दे शुश्रूषु र्देशनां निषसाद च ॥ यथा भक्तिं चिकीर्षी आत्मभावस्तथा जिघांसावपि कर्तव्यः । स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया । धिग्धिग् मुमूर्षुरेवाहमकार्षं कर्म गर्हितम्।
૨૪૮