________________
પાઠ ૨૯ મો
ધાતુ अव+इ २.२.५२. tuj. | वञ्च् १.१०. मा. छतरपुं. द्रु २.१.५२.४j, नाशी ४'. | वि-नि+अस् ।.४.५२.स्था५j.
वायो मा कार्षीत्कोऽपि पापानि, मा च भूत्कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मति मैत्री निगद्यते । राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः। अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम्॥ वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याध्ययनं च मेऽभूत् कियब्रुवे हास्यकरं स्वमीश ! ॥ हृदये वससीति मत्प्रियं, यदवोचस्तदवैमि कैतवम्। जीवितेनाऽमुना कि मे, तपसा भूयसाऽपि किम्। श्रुतिगोचरमायासीत् स्वसूनोर्यत्पराभवः ॥ स आश्रमपदं किञ्चित् चिरशून्यमशिश्रियत् । दुस्तपंच तपस्तेपे,शुष्कपत्रादिभोजनः । पलाशपत्राण्यादाय,स आश्रमकुटी व्यधात् । मृगाणामध्वगानांच,शीतच्छायाऽमृतप्रपाम् ।। यावत्प्रत्युपकाराय क्षमीभूतोऽस्मि यौवने। दैवादिहागमंतावत्पापोऽहमजितेन्द्रियः॥ अत्यन्तघोरनरकपातप्रतिभुवामहो। विषयाणां स्मरास्त्राणांमागास्त्वं भेदनीयताम्॥ यौवने पर्यणैषीत्स, राजकन्याः कुलोद्भवाः। सम्पृक्तश्चाशुभत्ताभिलताभिरिव पादपः॥ कुमार ! किन्तु पृच्छामि, प्रष्टमेवाहमागमम् । रसज्वरातुरेणेव, किं त्वयाऽत्याजि भोजनम्॥ उत्फणा:फणिनस्तं दंष्टुं धमनीनिभैरास्यैः फुत्कारपवनानमुचन् ।