________________
પાઠ ૨૬ મો
ततश्च सेवावसरे, मन्त्रिणः समुपेयुषः। प्रणामं कुर्वतो राजा, कोपात्तस्थौ पराङ्मुखः । किमत्र यामि याम्यत्र, किं वेति सकले पुरे। उत्प्रेक्षमाणो हाणि, बभ्राम मुनिपुङ्गवः ॥ उवाच स फलान्येतान्याहृतानि मया वनात् । यूयमश्नीत पक्वानि, मधुराणि महर्षयः!॥ रत्नै महाब्धेस्तुतुषुन देवाः,
न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययु विरामं,
न निश्चितार्थाद् विरमन्ति धीराः ॥ स गृहीतमहाभाण्ड, उत्साह इव मूर्तिमान्। ईहाञ्चक्रेऽन्यदा गन्तुं, वसन्तपुरपत्तनम् ।। प्रतिस्थानं च चैत्यानि, बभञ्जुस्ते दुराशयाः। तेषां ह्याजन्म' संपद्भ्योऽप्यभीष्टो धर्मविप्लवः॥ रामोऽथोचे दशरथं, म्लेच्छोच्छेदाय चेत्स्वयम्। तातो यास्यति तद्रामः, सानुजः किं करिष्यति ॥ भ्रूभङ्गमप्यकुर्वाणो, गीर्वाण इव भूगतः । रामस्तान्कोटिशोऽप्यस्त्र, विव्याध व्याधवन्मृगान् । विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पुज्यते राजा, विद्वान्सर्वत्र पूज्यते ॥
सामान्यमनुजेश्वरगृहदुर्लभैः पुष्पैः फलैः पत्रैरंशुकै रत्नाभरणैश्च भूरिभिः परमया भक्त्या रोमाञ्चिततनू राजा मुनिमर्चयाञ्चकार।
दशभिरब्दैश्चतुर्दशाऽपि विद्यास्थानानि सहसर्वाभिरुपविद्याभि विदाञ्चकार, कला: शास्त्रं च निरवशेषं विवेद, विशेषतश्चित्रकर्मणि वीणावाद्ये च प्रवीणतां प्राप स कुमारः।
१. आ जन्मनः इति आजन्म। (अव्ययीभावस.) ४न्मथी भांडीने.
१ee