________________
પાઠ ૨૨ મો
कुमार! गहनः सचिव-वृत्तान्तः, नैतावता परिच्छेत्तुं शक्यते । यत्तदलंकरणत्रयं क्रीतं तन्मध्यादेकं दीयताम् । देवोऽयमेवं स्वकुल-प्रशंसां कुरुतेतमाम्। एतावानेव शतक्रतोरायुष्यमतश्च विशेषः । प्रगलिततारका तनिमानमभजत रजनिः। अस्मिन्नलक्षित-नतोन्नत-भूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति । कुसुम-स्तबकस्येव द्वयी वृत्ति मनस्विनः । मूर्ति वा सर्वलोकस्य शीर्यते वन एव वा । नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्। शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दन-द्रुमाः॥ मण्डलीकृत्य बर्हाणि कण्ठै मधुरगीतिभिः । कलापिन: प्रनृत्यन्ति काले जीमूतमालिनि ॥ यदि नाम कुमुदचन्द्रं नाऽजेष्यद् देवसूरिरहिमरुचिः । कटि-परिधानमधास्यत कतमः श्वेताम्बरो जगति? ॥ कुसंसर्गात्कुलीनानां भवेदभ्युदयः कुतः। कदली नन्दति कियद् बदरी-तरु-सन्निधौ ॥ नेमे दासीकृता नेमा हताश्चानेन भूभुजः। अर्धे द्विपा हयाश्चार्धाः सन्नद्धाः सर्व एव न । मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकार-श्रेणिभिः प्रीणयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं, निजहदि विकसन्तः सन्ति सन्तः कियन्तः ॥
१. '५' अर्थमा य (ट्यण) अने (अण्) प्रत्यय ५९ लागे छ. निर्गुण, नैर्गुण्यम् । विषम, वैषम्यम् ७. । गुरु, गौरवम् ।
૧૪૭