________________
પાઠ ૨૦ મો
વાક્યો शरत्कालवशादिन्दुकरा: स्युरधिकश्रियः । बलिनो यद्दलिभ्योऽपि बहुरत्ना भूरियम्। किं हि दुःसाध्यं सुधियां धियः । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । प्रायेण हि दरिद्राणां शीघ्रं गर्भभृतः स्त्रियः । श्री-छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः । कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः॥ धेहि धर्मे धनधियं मा धनेषु कदाचन । सेवस्व सद्गुरूपज्ञां शिक्षा मा तु नितम्बिनीम्॥ कृतमोहास्त्रवैफल्यं ज्ञानवर्म बिभर्ति यः। क्व भीस्तस्य क्व वा भङ्गः कर्मसंगरकेलिषु ॥ आयुः पताकाचपलं तरङ्ग-तरलाः श्रियः । भोगि-भोग-निभा भोगा: संगमाः स्वप्नसंनिभाः॥ याचकानां महतीनामाशानामेष पूरकः । ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ सृजति तावदशेषगुणाकरं पुरुषरत्नमलंकरणं भुवः । तदपि तत्क्षणभङ्गिकरोति चेद् अहह कष्टमपण्डितता विधेः ।। निर्द्रव्यो हियमेति हिपरिगतः प्रभ्रश्यते तेजसो, निस्तेजा: परिभूयते परिभवानिर्वेदमागच्छति । निर्विणः शुचमेति शोकविवशो बुद्ध्या परित्यज्यते, निर्बुद्धिः क्षयमेत्यहो निधनता सर्वाऽऽपदामास्पदम्॥
१. आ (आङ्) मने मा (मा) सिवाय हाई स्वरना पछी छ विस्वाय छे. पा. २. नि. ११. नो अपवाह.
१33