________________
પાઠ ૧૯ મો
दीक्षां सह त्वयाऽऽदास्ये विहरिष्ये सह त्वया । दुःसहांश्च सहिष्येऽहं त्वया सह परिषहान् ॥ त्वया सहोपसर्गाश्च सहिष्ये त्रिजगद्गुरो !। कथंचिदपि न स्थास्याम्यहमत्र प्रसीद मे ॥ युष्मानष्टान् विनष्टान्वा हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी ऋषि-हत्याकृतामिव ।। युष्मान्विना गतान्नोऽद्य लोकोप्युपहसिष्यति। हृदय ! स्फुट रे सद्यः पयःसिक्ताऽऽमकुम्भवत् ।। मयैकाकिन्यसौ मुक्ता प्रबुद्धा मुग्धलोचना। मोक्ष्यते जीवितेनाऽपि स्पर्द्धयेव मया सह ॥ भक्तां तदेनां वञ्चित्वा नान्यतो गन्तुमुत्सहे। जीवितं मरणं वाऽपि मम स्यादनया सह । अथवाऽनेक-दुःखानामरण्ये नरकोपमे। पात्रं नारकिक इव भवाम्येकोऽहमस्त्वसौ ॥ मया तु वस्त्र-लिखितामाज्ञां कृत्वा मृगाक्ष्यसौ। स्वयं गत्वा कुशलिनी वत्स्यति स्वजनौकसि ॥ इति निश्चित्य तां रात्रिमतिक्रम्य च नैषधिः।
प्रबोध-समये पल्याः प्राचलत्त्वरितक्रमम् । पूर्णोऽहमथैरिति मा प्रसीद रिक्तोऽहमथैरिति मा विषीद । रिक्तं च पूर्णं भरितं च रिक्तं करिष्यतो नास्ति विधे विलम्बः ।। त्वया विना वीर ! कथं व्रजामो ! गृहेऽधुना शून्यवनोपमाने । गोष्ठ-सुखं केन सहाचरामो ! भोक्ष्यामहे केन सहाथ बन्यो ! ।। अतिप्रियं बान्धव ! दर्शनं ते सुधाञ्जनं भावि कदास्मदक्ष्णोः । नीरागचित्तोऽपि कदाचिदस्मास्मरिष्यसि प्रौढगुणाभिराम !॥
१. त्वरितौ क्रमौ यस्मिन् (कर्मणि) तत् त्वरितकमम्।.वि.
૧૨૫