________________
પાઠ ૧૮ મો भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः , एवं च वीर ! वीर ! इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य । चाणक्यतश्चलितभक्तिमहं सुखेन
जेष्यामि मौर्यमिति संप्रति यः प्रयुक्तः । भेदः किलैष भवता सकलः स एव
सम्पत्स्यते शठ! तवैव हि दूषणाय । अनुस्यो वरः कोऽस्या भवितेति दिवानिशम् । अचिन्तयत्तज्जनको जनकः पृथिवी-पतिः । तूलं तृणादपि लघु तूलादपि हि याचकः । वायुना किन नीतोऽसौ? मामपि प्रार्थयिष्यते ॥ वनं व्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन यद्दीर्णा कौशल्ये ! वज्रमय्यसि । प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो ! मर्यादां लयिष्यन्ति निश्चितं जलराशयः॥ अम्लान-केवल-ज्ञान-प्रकाशेन विना त्वया। तमसीव ऋते दीपं स्थास्यामोऽत्र कथं भवे? ॥ कुतो धर्म-क्रिया-विघ्नः सतां रक्षितरित्वयि। तमस्तपति घर्माशौ कथमाविर्भविष्यति॥ दस्युभ्यस्त्रास्यते मार्गे श्वापदोपदवादपि । पालयिष्यत्यसौ मन्दान् सहगान्बान्धवानिव ॥ उपेक्ष्य लोष्ट-क्षेप्तारं लोष्टं दशति मण्डलः ।
मृगारिः शरमुत्प्रेक्ष्य शर-क्षेप्तारमृच्छति ॥ १. दिवा च निशा च अनयोः समाहारः दिवानिशम् । २. ऋते अव्ययना योगमा द्वितीया मने पंयमी विमस्ति थाय छे. 3. घर्माः अंशवः यस्य स धर्मांशुः (सूर्यः) । ४. सह गच्छन्ति इति सहगाः । साथे ४नारा, सगा.
૧૧૮