________________
પાઠ ૧૭ મો
વાક્યો
सखे ! इदमासनमास्यताम् । पथि पथि वृणुयादाजलोकः कुमारम् । गच्छ, सर्वथा शिवास्ते पन्थानः सन्तु । स एकः पुमान्य: कुटुम्बं बिभर्ति । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ।
अर्पितानल्पपदातिसैन्यं पुण्येऽहनि प्रधानैरवनिपतिभिरमात्यैः सामन्तैश्च कृत्वा मामसहायं प्राहिणोत् ।
यथाऽसंख्येया दिवि देवा नभसि च तारकाः तथा परमात्मनि गुणाः।
धनसाधनी सामग्री प्राप्य योषाऽपि धनमर्जयति किमु युवा नरः?।
त्वामामनन्ति मुनयः परमं पुमांसम् । यथा यथा समारम्भो दैवात्सिद्धि न गच्छति । तथा तथाऽधिकोत्साहो धीराणां हदि वर्तते ॥ मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्लयोः । तत्रैकः शक्लतां यातो यशः पण्यैरवाप्यते ।। विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ निशि दीपोऽम्बुधौ द्वीपो मरौ शाखी हिमे शिखी। कलौ दुरापः प्राप्तोऽयं त्वत्पादाब्जरजःकणः ॥ आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदां मार्गों येनेष्टं तेन गम्यताम् ।। १. तेन मिश्रा:-तन्मिश्राः । २. दुःखेन आप्यते-दुरापः। ३. तव पादाब्जयो: रजःकण:
૧0૫