________________
સંસ્કૃત વાક્યો असारात्सारमुद्धरेत् । अति सर्वत्र वर्जयेत् । अहं पापं नाचरेयम्। भो देवदत्त ! आवां द्वौ शत्रुञ्जयं गच्छेव । प्राणानामत्ययेऽपि धर्मो न त्यज्येत । देवदत्तस्य व्याधिनश्येद्यदि स पथ्यं सेवेत । जनाः सुखमनुभवेयुर्यद्यधर्म नाचरेयुः । अत्र मुनीनां वसतिं गच्छेम । अपि देवदत्तो व्यापारेण बहु धनं लभेत । कृतो हि संग्रहो लोके काले स्यात्फलदायकः । प्रहरेद् बाहुना को हि तीक्ष्णे प्रहरणे सति !। एकाऽपि हि हरेच्चित्तं किं पुनः सकला: कला: ? । विनाऽप्यन्नेन जीव्येत, जीवनीयं विना न तु । यस्य प्रसन्नो नृपतिः तस्य कः स्यान सेवकः ! न मुह्येदर्थ-कृच्छ्रेषु न च धर्मं परित्यजेत् । किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ यस्मिन्देशे न संमानो, न वृत्ति न च बान्धवः । न च विद्यागमः कश्चित्, तं देशं परिवर्जयेत् ॥ शत्रुमुन्मूलयेत्प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथाकरं सुखार्थाय, कण्टकेनेव कण्टकम् ॥ गच्छत्येकेन पादेन, तिष्ठत्येकेन पण्डितः । ना-5-समीक्ष्य परं स्थानं, पूर्वमायतनं त्यजेत् ॥ ૧ર૬