________________ 200 टिप्पनक-परागविवृतिसंवलिता / स्त्रिचतुरैरेव चतुरैस्तरुणपरिचारकैः परिगतम् , अनासन्ननिःसहनिःस्पन्दनिद्राक्लान्तकतिपयकर्णधारम् [छ ], उदारतेजसाऽतुलबलेन दीर्घबाहुना सुवर्णकटकोद्भासितेन प्रशस्तायतिना प्रकामकान्तालोकेन सुकुमारेण सम्राजेव वपुषा जिताशेषभुवनं, भवनमिव सौभाग्यस्य, स्वरूपमिव रूपस्य, लयनमिव लावण्यस्य, किश्चिदधिकाष्टादशवर्षवयसमुर्वीपतिकुमारमद्राक्षम् [ज] // _ टिप्पनकम्-सम्राजेव वपुषा जिताशेषभुवनम् , कीदृशेन द्वयेन ? 'उदारतेजसा' इत्यादिना, एकत्र उदारतेजसा उद्भटवीर्येण, अन्यत्र उदारदीप्तिना; अतुलबलेन एकत्र असमसैन्येन, अन्यत्र अतुलसामर्थ्येन दीर्घबाहुना तुल्यम् ; सुवर्णकटकोद्भासितेन एकत्र शोभना ये वर्णाः-ब्राह्मणादयः तेषां कटकानि-सैन्यानि, तैरुद्भासितेन-शोभितेन, अन्यत्र हेमकङ्कणशोभितेन; प्रशस्तायतिना प्रकृष्टदैर्येण, अन्यत्र प्रधानाज्ञेन, प्रकामकान्तालोकेन प्रकृष्टमन्मथप्रियाजनेन, अन्यत्र अत्यर्थकमनीयप्रकाशेन; सुकुमारेण एकत्र शोभनाः कुमारा यस्य स तथोक्तस्तेन, अन्यत्र मृदुना [ज] // वीटकैः उद्धृतताम्बूलपुटकैः, पुनः कैश्चित् कैरपि, प्रवर्तितरजनीवार्तालापैः प्रसञ्जितरात्रिवृत्ताभाषणैः, पुनः त्रिचतुरैरेव त्रयो वा चत्वारो वा त्रिचतुराः, तैरेव, पुनः चतुरैः परिचर्यानिपुणैः; पुनः अनासन्ननिःसहनिःस्पन्दनिद्राक्लान्तकतिपयकर्णधारम् अनासन्नाः-असन्निहिताः निःसहाः-दुबैलाः, निःस्पन्दा:-निश्चेष्टाः, निद्राक्लान्ताः-निद्राव्याकुलाश्च, कतिपये-कतिचित् , कर्णधारा यस्य तादृशम् [छ]। पुनः सम्राजेव अखिलभुवनाधिपतिनेव, वपुषा शरीरेण, जिताशेषभुवनं जितं-तिर तं, पक्षे वशीकृतम् , अशे येन तादृशम् , कीदृशेन? उदारतेजसा उत्कृष्टद्युतिना, पक्षे महाप्रतापेन, पुनः अतलबलेन निरुपम शक्तिशालिना, पक्षे असाधारणसैन्यकेन, पुनः दीर्घबाहुना आजानुलम्बमानभुजेनेत्युभयत्र समम् , पुनः सुवर्णकटकोद्भासितेन सुवर्णनिर्मितवलयोद्दीपितेन, पक्षे सुवर्णाः-शोभना ब्राह्मणादयो वर्णाः, तेषां कटकैः-सैन्यैः, उद्भासितेन-शोभितेन, पुनः प्रशस्तायतिना प्रशस्ता, आयतिः-दैर्घ्य, पक्षे आज्ञा यस्य तादृशेन, पुनः प्रकामकान्तालोकेन प्रकामकान्तः-अत्यन्तमनोहरः, आलोकः-प्रकाशो यस्य, पक्षे प्रकृष्टः, कामः-कामदेववासना यस्य तादृशः, कान्तालोकः-कामिनीजनो यस्य तादृशेन, पुनः सुकुमारेण कोमलेन, पक्षे सुन्दराः कुमाराः-पुत्रा यस्य तादृशेन; पुनः कीदृशम् ? सौभाग्यस्य सौन्दर्यस्य, सुन्दरभाग्यस्य वा, भवनमिव गृहमिव, आधारमिवेत्यर्थः, पुनः लावण्यस्य सौन्दर्यस्य, लयनमिव मन्दिरमिव; पुनः किश्चिदधिकाटादशवर्षवयसम् अष्टादशभ्योऽधिकानीति-अधिकाष्टादशानि, किञ्चिदधिकाष्टादशानि वर्षाणि वयो यस्य तादृशम् [ज] "Aho Shrutgyanam"