________________ 199 तिलकमञ्जरी नयष्टिश्विरमतिष्ठम् / प्रवर्तिता च सहचरीभिरर्णवं द्रष्टुमभ्यर्णवर्तिनैकेन सोपानवर्त्मना दक्षिणां देवतागृहप्राकारभित्तिमध्यरोहम् [3] / तस्याश्च संघट्टविघटमानमुखरवीचिशिखरशङ्खश्रेणिना वारिधिजलेन प्रतिवेलमास्फालितस्फाटिकशिलातलायास्तलविभागे निविष्टदृष्टिरुत्कृष्टनौयानाधिरूढम् , अध्यासितमकरमिव यादसां नाथम् , ईशाननयनानलादुपद्रुतमयुग्मेषुमिवागत्य संश्रितजलदुर्गम् , उदधिसौहृदाकृष्टहृदयमवतीर्णमन्तरिक्षादिव नक्षत्रनाथम्, इतस्ततो विनिहितैरसिगदाचक्रचापैः प्रकाशितपौरुषप्रकर्षमर्णवनिवासिदानवशासनाय शेषशयनमुत्सृज्य चलितमिव जलशायिनं देवम् , उभयतः स्थापितमृदुस्थूलहंसतूलोपधाने धौतनेत्रप्रच्छदाच्छादिते कुमुदगर्भच्छदावदातद्युतिनि दन्तपट्टशयने निविष्टम् [च], अनुपृष्ठमुपहितस्य महतो हेमपीठस्य शिरसि विनिवेशितद्विगुणदक्षिणेतरभुजस्तम्भम् , अभ्यर्णोपविष्टैः कैश्चिदुद्धृतधवलचामरैः कैश्चिदुत्सङ्गितचरणयुगलैः कैश्चित् केशभारविवरणव्यापृतकरैः कैश्चिदुत्क्षिप्तताम्बूलवीटकैः कैश्चित् प्रवर्तितरजनीवार्तालापै स्थिरशरीरयष्टिः, चिरं दीर्घकालम् , अतिष्ठं स्थितवती / च पुनः, अर्णवं समुद्र, द्रष्टुं दृष्टिगोचरीकर्तुं, सहचरीभिः सखीभिः, प्रवर्तिता प्रेरिता सती, अभ्यर्णवर्तिना निकटवर्तिना, एकेन, सोपानवर्त्मना अधिरोहणमार्गेण, दक्षिणां देवतागृहप्राकारभित्तिं जिनेन्द्रमन्दिरप्राकारकुड्यम् , अध्यरोहम् आरूढवती, सर्वत्राहमिति शेषः [3] / च पुनः, संघट्टविघटमानमुखरवीचिशिखरशङ्खश्रेणिना सङ्घट्टेन-आघातेन, विघटमाना-ततो विश्लिष्यमाणा, अपसरन्तीत्यर्थः, मुखराणां ध्वनता, वीचीनां-तरङ्गाणां, शिखरभूता-ऊर्ध्वमवस्थिता, शङ्खश्रेणी-शङ्खपतिर्यस्मिंस्तादृशेन, वारिधिजलेन समुद्रजलेन. प्रतिवेलं प्रतितटम, आस्फालितस्फटिकशिलातलायाः आस्फालितम्-आहतं, स्फाटिकशिला तलं-स्फटिकसम्बन्धि शिलामध्यं यस्यास्तादृश्याः, तस्याः प्राकारभित्तः, तलविभागे अधस्तनप्रदेशे, निविष्टदृष्टिः निहितलोचना सती, अहमिति शेषः, उर्वीपतिकुमारं नृपकुमारम् , अद्राक्षं दृष्टवतीत्यप्रेणान्वेति, कीदृशीम् ? नौयानाधिरूढं नौरूपं यत् यानं-वाहनं, तत् , अधिरूढम्-आरूढम् ; अत एव अध्यासितमकरं मकरमधिरूढं, यादसा जलजन्तूनां, नाथमिव वरुणमिवेत्युत्प्रेक्षा; पुनः ईशाननयनानलात् शिवनयनाग्निना उपद्रुतम् , उपतापितम् , आगत्य उपस्थाय, संश्रितजलदुर्ग संश्रितं-शरणीकृतं, जलदुर्ग-जलात्मकं दुर्ग-शिवनेत्राग्निना दुःखेन गन्तुं शक्यं स्थानं येन तादृशम्, अयुग्मेषुमिव पञ्चबाणमिव, कामदेवमिवेत्यर्थः; पुनः उदधिसौहृदाकृष्टहृदयम् उदधिसौहृदेन- समुद्ररूपपितृस्नेहेन, आकृष्टंवशीकृतं हृदयं यस्य तादृशम् , अन्तरिक्षात् गगनमण्डलात्, अवतीर्णम् अधस्तादापतितं, नक्षत्रनाथमिव चन्द्रमिव; पुनः इतस्ततः अत्र तत्र, विनिहितैः सन्निवेशितैः, असि-गदा-चक्रचापैः असि-नन्दकनामा खगः, गदा-कौमोदकीनामकदण्डविशेषः, चक्रं नाम-सुदर्शनाख्यमस्त्रं चापो नाम-शार्ङ्गनामकं धनुः, तैः, प्रकाशितपौरुषप्रकर्ष प्रकाशितः-प्रकटितः, पौरुषप्रकर्षः-स्वपराक्रमोत्कर्षों येन तादृशम् , अर्णवनिवासिदानवशासनाय समुद्रस्थदैत्यदमनाय, शेषशयनं शेषनागरूपां शय्याम् , उत्सृज्य त्यक्त्वा, चलितं प्रस्थितं, जलशायिनं जलाधिकरणकशयनशीलं, देवमिव विष्णुमिवेति सर्वत्रोत्प्रेक्षा; पुनः कीदृशम् ? दन्तपट्टशयने हस्तिदन्तमयपट्टिकाघटितपर्यङ्करूपशव्यायां, निविष्टम् उपविष्टम् , कीदृशे ? उभयतः भागद्वये, स्थापितमृड सतलोपधाने मृदुनी-कोमले, स्थूले च, हंसतूलोपधाने-हंसजातीयपक्षिलोममयमस्तकाद्युपधाने यस्मिंस्तादृशे, धौतनेत्रप्रच्छदाच्छादिते धौतेन-अचिरक्षालितेन, नेत्रप्रच्छदेन-नेत्रं नाम अंशुकं, सूक्ष्मश्लक्ष्णवस्त्रमित्यर्थः, तद्रूपेण, प्रच्छेन-आस्तरणेन, आच्छादिते-आस्तीर्णे, पुनः कुमुदगर्भच्छदावदातद्युतिनि कुमुदस्यचन्द्रविकासिकमलस्य यो गर्भच्छदः-अन्तःस्थपत्रं, तद्वत् , अवदाता-विशुद्धा, द्युतिः-छविर्यस्य तादृशे; [च]। पुनः अनुपृष्ठं पृष्ठसमीपे, उपहितस्य स्थापितस्य, महतो विशालम्य, हेमपीठस्य सुवर्णमयोच्चासनस्य, शिरसि ऊर्वभागे, विनिवेशितद्विगुणदक्षिणेतरभुजस्तम्भं विनिवेशितः-समारोपितः, द्विगुणः-मध्यादारभ्याकुञ्चनेन द्वैगुण्यमापादितः, दक्षिणेतरः-वामो यो भुजः-बाहुः, तद्रूपः स्तम्भो-बृहद्दण्डो येन तादृशम् ; पुनः अभ्योपविष्टः समीपोपविष्टः तरुणपरिचारकैः यौवनावस्थपरिचारकजनैः, परिगतं परितो व्याप्तम् , कीदृशैः ? कैश्चित् कतिपयैः, उद्धृतधवलचामरैः उक्षिप्तश्वेतचामरैः, पुनः कैश्चित् कैरपि, उत्सङ्गितचरणयुगलैः क्रोडारोपितचरणद्वयैः, पुनः कैश्चित् कैरपि, केशभारविवरणव्यापृतकरैः केशभारस्य-केशराशेः, विवरणे-विस्तारणे, व्यापृतौ-प्रवृत्तौ, करौ येषां तादृशैः, पुनः कैश्चित् कैरपि, उत्क्षिप्तताम्बूल "Aho Shrutgyanam"